22 तस्मिन् शुभदिने हेरोदियायाः कन्या समेत्य तेषां समक्षं संनृत्य हेरोदस्तेन सहोपविष्टानाञ्च तोषमजीजनत् तता नृपः कन्यामाह स्म मत्तो यद् याचसे तदेव तुभ्यं दास्ये।
23 शपथं कृत्वाकथयत् चेद् राज्यार्द्धमपि याचसे तदपि तुभ्यं दास्ये।
24 ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः।
25 अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं।
26 तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः।
27 तत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्।
28 ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।