24 अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।
25 यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा
26 स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती।
27 किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपोऽनुचितः।
28 तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि मञ्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति।
29 ततः सोऽकथयद् एतत्कथाहेतोः सकुशला याहि तव कन्यां त्यक्त्वा भूतो गतः।
30 अथ सा स्त्री गृहं गत्वा कन्यां भूतत्यक्तां शय्यास्थितां ददर्श।