10 ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
11 तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
12 अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
13 अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।