46 मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
47 ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
48 किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
49 पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
50 यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।