31 अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
32 सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।