29 ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
30 किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
31 यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?