32 तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।
33 तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
34 यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
35 तदानीं स लोकनिवहं भूमावुपवेष्टुम् आदिश्य
36 तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।
37 ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः।
38 ते भोक्तारो योषितो बालकांश्च विहाय प्रायेण चतुःसहस्राणि पुरुषा आसन्।