15 यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
16 किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
17 तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।