18 अनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्छन् क्षुधार्त्तो बभूव।
19 ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
20 तद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोऽतितूर्णं शुष्कोऽभवत्।
21 ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
22 तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।