23 तस्मिन्नहनि सिदूकिनोऽर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेारन्तिकम् आगत्य पप्रच्छुः,
24 हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25 किन्त्वस्माकमत्र केऽपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26 ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27 शेषे सापी नारी ममार।
28 मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29 ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।
30 उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31 अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32 "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।
33 इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।