37 ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38 एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
39 तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40 अनयो र्द्वयोराज्ञयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।