29 अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।
30 तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
31 तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।