36 वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
37 तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
38 कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
39 कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम?
40 तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।