1 यीशुरेतान् प्रस्तावान् समाप्य शिष्यानूचे,
2 युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
3 ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा
4 केनोपायेन यीशुं धृत्वा हन्तुं शक्नुयुरिति मन्त्रयाञ्चक्रुः।
5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।
6 ततो बैथनियापुरे शिमोनाख्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति
7 काचन योषा श्वेतोपलभाजनेन महार्घ्यं सुगन्धि तैलमानीय भोजनायोपविशतस्तस्य शिरोभ्यषेचत्।
8 किन्तु तदालोक्य तच्छिष्यैः कुपितैरुक्तं, कुत इत्थमपव्ययते?
9 चेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत।
10 यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
11 युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।
12 सा मम कायोपरि सुगन्धितैलं सिक्त्वा मम श्मशानदानकर्म्माकार्षीत्।
13 अतोहं युष्मान् तथ्यं वदामि सर्व्वस्मिन् जगति यत्र यत्रैष सुसमाचारः प्रचारिष्यते, तत्र तत्रैतस्या नार्य्याः स्मरणार्थम् कर्म्मेदं प्रचारिष्यते।
14 ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,
15 यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
16 स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्।
17 अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
18 तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।
19 तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।
20 ततः सन्ध्यायां सत्यां द्वादशभिः शिष्यैः साकं स न्यविशत्।
21 अपरं भुञ्जान उक्तवान् युष्मान् तथ्यं वदामि, युष्माकमेको मां परकरेषु समर्पयिष्यति।
22 तदा तेऽतीव दुःखिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं?
23 ततः स जगाद, मया साकं यो जनो भोजनपात्रे करं संक्षिपति, स एव मां परकरेषु समर्पयिष्यति।
24 मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
25 तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।
26 अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।
27 पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं,
28 यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।