25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
26 तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।