16 अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
17 यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय;
18 तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।