2 त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
3 किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय।
4 तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।