6 तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
7 अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।