2 ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
3 तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।
4 ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?
5 तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
6 किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।
7 ततः स तत्क्षणाद् उत्थाय निजगेहं प्रस्थितवान्।