9 अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
10 ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
11 फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
12 यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।
13 अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।