9 तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।
10 एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।
11 प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?
12 हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।