14 युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
15 तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।