4 पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।
16 यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
19 हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति
20 तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।