6 तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः।
7 यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
8 किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,
9 उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।