Família
A família é a primeira instituição criada por Deus. Ele a projetou para ser escola de amor, fé e formação de caráter. A Bíblia honra a família e nos ensina a cuidar dela.
Eu e minha casa
Eu e minha casa serviremos ao Senhor. A família que serve a Deus juntos permanece unida e fortalecida em todas as circunstâncias.
पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
Criar os filhos
Instrui a criança no caminho em que deve andar. O lar é a primeira escola de fé e obediência.
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।
त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
Honrar e amar
Honra teu pai e tua mãe. A família funciona com perdão, paciência e amor incondicional entre todos os seus membros.
निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
अनन्तरम् एतासु कथासु समाप्तासु यीशु र्गालीलप्रदेशात् प्रस्थाय यर्दन्तीरस्थं यिहूदाप्रदेशं प्राप्तः।
तदा तत्पश्चात् जननिवहे गते स तत्र तान् निरामयान् अकरोत्।
तदनन्तरं फिरूशिनस्तत्समीपमागत्य पारीक्षितुं तं पप्रच्छुः, कस्मादपि कारणात् नरेण स्वजाया परित्याज्या न वा?
स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
तदानीं ते तं प्रत्यवदन्, तथात्वे त्याज्यपत्रं दत्त्वा स्वां स्वां जायां त्यक्तुं व्यवस्थां मूसाः कथं लिलेख?
ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।
अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं।
ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।
कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।
अपरम् यथा स शिशूनां गात्रेषु हस्तं दत्वा प्रार्थयते, तदर्थं तत्समींपं शिशव आनीयन्त, तत आनयितृन् शिष्यास्तिरस्कृतवन्तः।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
ततः स तेषां गात्रेषु हस्तं दत्वा तस्मात् स्थानात् प्रतस्थे।
अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?
ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।
तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।
तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि।
पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?
ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
किन्तु अग्रीया अनेके जनाः पश्चात्, पश्चातीयाश्चानेके लोका अग्रे भविष्यन्ति।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
Cuidar da família
Quem não cuida dos seus negou a fé. A família é responsabilidade sagrada — prover, proteger e abençoar é mandamento divino.
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
Unidade familiar
A coroa dos velhos são os filhos dos filhos. O casamento, os filhos e a comunhão familiar são bênçãos de Deus.
Casamento e família
O homem deixará pai e mãe e se unirá à sua mulher. A família começa no casamento — aliança sagrada diante de Deus.
किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।
"ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति,
तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ।
अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।