Publicidade

Hebreus 1

1 पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्

2 स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।

3 स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

4 दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।

5 यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया।" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति।"

6 अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।"

7 दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"

8 किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः।

9 पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"

10 पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।

11 इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।

12 सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"

13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"

14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?

Veja também

Publicidade
Hebreus
Ver todos os capítulos de Hebreus
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-