Jesus Cristo
Jesus Cristo é o centro de toda a Escritura — Deus encarnado, Salvador do mundo, Senhor dos senhores. Nele habita corporalmente toda a plenitude da divindade.
A divindade de Cristo
No princípio era o Verbo, e o Verbo estava com Deus, e o Verbo era Deus. Jesus é Deus revelado em carne humana.
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
स आदावीश्वरेण सहासीत्।
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।
यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।
यूयञ्च तेन पूर्णा भवथ यतः स सर्व्वेषां राजत्वकर्त्तृत्वपदानां मूर्द्धास्ति,
ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,
किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।
ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
Jesus, o Filho de Deus
Tu és o Cristo, o Filho do Deus vivo! Jesus revelou o Pai e demonstrou sua autoridade divina por palavras e obras.
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
त्वममरेश्वरस्याभिषिक्तपुत्रः।
ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।
यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।
किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?
तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
Eu Sou
Jesus disse: antes que Abraão existisse, Eu Sou. Ele se identificou com o nome divino revelado a Moisés na sarça ardente.
यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।
अहं पिता च द्वयोरेकत्वम्।
यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
O Salvador e Senhor
Jesus é o caminho, a verdade e a vida. Não há outro nome dado entre os homens pelo qual devamos ser salvos.
यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?
ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।
तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास।
A supremacia de Cristo
Ele é o resplendor da glória de Deus e a expressão exata do seu ser. Toda a plenitude habita nele e por Ele tudo subsiste.
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।
अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।
Confessar a Cristo
Todo aquele que confessa que Jesus é o Filho de Deus, Deus permanece nele e ele em Deus. A fé em Cristo é a vitória.
यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।
यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।
यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?
तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।
यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
Viver em Cristo
Já não sou eu quem vive, mas Cristo vive em mim. Ele supre toda necessidade, dá paz e reina como Senhor.
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्यङ्गानि सन्ति किन्तु सर्व्वेषामङ्गानां कार्य्यं समानं नहि;
तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः
O Rei eterno
O Rei dos reis voltará em glória e majestade. Todo joelho se dobrará e toda língua confessará que Jesus Cristo é o Senhor.
अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।
स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।
तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु वर्त्ततां। आमेन्।
पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।
तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।
एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।
किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।
अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।
अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति।
अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।
यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।
अहं पिता च द्वयोरेकत्वम्।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।
स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। आमेन्।