Publicidade

Gálatas 4

1 अहं वदामि सम्पदधिकारी यावद् बालस्तिष्ठति तावत् सर्व्वस्वस्याधिपतिः सन्नपि स दासात् केनापि विषयेण न विशिष्यते

2 किन्तु पित्रा निरूपितं समयं यावत् पालकानां धनाध्यक्षाणाञ्च निघ्नस्तिष्ठति।

3 तद्वद् वयमपि बाल्यकाले दासा इव संसारस्याक्षरमालाया अधीना आस्महे।

4 अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्

5 अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।

6 यूयं सन्ताना अभवत तत्कारणाद् ईश्वरः स्वपुत्रस्यात्मानां युष्माकम् अन्तःकरणानि प्रहितवान् स चात्मा पितः पितरित्याह्वानं कारयति।

7 अत इदानीं यूयं न दासाः किन्तुः सन्ताना एव तस्मात् सन्तानत्वाच्च ख्रीष्टेनेश्वरीयसम्पदधिकारिणोऽप्याध्वे।

8 अपरञ्च पूर्व्वं यूयम् ईश्वरं न ज्ञात्वा ये स्वभावतोऽनीश्वरास्तेषां दासत्वेऽतिष्ठत।

9 इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?

10 यूयं दिवसान् मासान् तिथीन् संवत्सरांश्च सम्मन्यध्वे।

11 युष्मदर्थं मया यः परिश्रमोऽकारि स विफलो जात इति युष्मानध्यहं बिभेमि।

12 हे भ्रातरः, अहं यादृशोऽस्मि यूयमपि तादृशा भवतेति प्रार्थये यतोऽहमपि युष्मत्तुल्योऽभवं युष्माभि र्मम किमपि नापराद्धं।

13 पूर्व्वमहं कलेवरस्य दौर्ब्बल्येन युष्मान् सुसंवादम् अज्ञापयमिति यूयं जानीथ।

14 तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।

15 अतस्तदानीं युष्माकं या धन्यताभवत् सा क्क गता? तदानीं यूयं यदि स्वेषां नयनान्युत्पाट्य मह्यं दातुम् अशक्ष्यत तर्हि तदप्यकरिष्यतेति प्रमाणम् अहं ददामि।

16 साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?

17 ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति।

18 केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं।

19 हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।

20 अहमिदानीं युष्माकं सन्निधिं गत्वा स्वरान्तरेण युष्मान् सम्भाषितुं कामये यतो युष्मानधि व्याकुलोऽस्मि।

21 हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?

22 तन्मां वदत। लिखितमास्ते, इब्राहीमो द्वौ पुत्रावासाते तयोरेको दास्यां द्वितीयश्च पत्न्यां जातः।

23 तयो र्यो दास्यां जातः स शारीरिकनियमेन जज्ञे यश्च पत्न्यां जातः स प्रतिज्ञया जज्ञे।

24 इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।

25 यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।

26 किन्तु स्वर्गीया यिरूशालम्पुरी पत्नी सर्व्वेषाम् अस्माकं माता चास्ते।

27 यादृशं लिखितम् आस्ते, "वन्ध्ये सन्तानहीने त्वं स्वरं जयजयं कुरु। अप्रसूते त्वयोल्लासो जयाशब्दश्च गीयतां। यत एव सनाथाया योषितः सन्तते र्गणात्। अनाथा या भवेन्नारी तदपत्यानि भूरिशः॥"

28 हे भ्रातृगण, इम्हाक् इव वयं प्रतिज्ञया जाताः सन्तानाः।

29 किन्तु तदानीं शारीरिकनियमेन जातः पुत्रो यद्वद् आत्मिकनियमेन जातं पुत्रम् उपाद्रवत् तथाधुनापि।

30 किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"

31 अतएव हे भ्रातरः, वयं दास्याः सन्ताना न भूत्वा पात्न्याः सन्ताना भवामः।

Veja também

Publicidade
Gálatas
Ver todos os capítulos de Gálatas
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-