23 वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,
24 किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।
25 यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।