Publicidade

2 Coríntios 10

1 युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।

2 मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।

3 यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः।

4 अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,

5 तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,

6 युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च।

7 यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।

8 युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।

9 अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां।

10 तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।

11 किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां।

12 स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च।

13 वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे।

14 युष्माकं देशोऽस्माभिरगन्तव्यस्तस्माद् वयं स्वसीमाम् उल्लङ्घामहे तन्नहि यतः ख्रीष्टस्य सुसंवादेनापरेषां प्राग् वयमेव युष्मान् प्राप्तवन्तः।

15 वयं स्वसीमाम् उल्लङ्घ्य परक्षेत्रेण श्लाघामहे तन्नहि, किञ्च युष्माकं विश्वासे वृद्धिं गते युष्मद्देशेऽस्माकं सीमा युष्माभिर्दीर्घं विस्तारयिष्यते,

16 तेन वयं युष्माकं पश्चिमदिक्स्थेषु स्थानेषु सुसंवादं घोषयिष्यामः, इत्थं परसीमायां परेण यत् परिष्कृतं तेन न श्लाघिष्यामहे।

17 यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।

18 स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।

Veja também

Publicidade
2 Coríntios
Ver todos os capítulos de 2 Coríntios
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_10-32-54-