9 ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा
10 लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।
11 यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।