12 इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।
13 तद्वत् कस्याश्चिद् योषितः पतिरविश्वासी सन्नपि यदि तया सहवासे तुष्यति तर्हि स तया न त्यज्यतां।
14 यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।