15 यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;
16 यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।
17 अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।
18 अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।