24 यिहूदीयैरहं पञ्चकृत्व ऊनचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघातञ्च प्रप्तवान्।
25 वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।
26 बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च
27 परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।