4 अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।
5 किन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये।
6 मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे।