4 ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते;
5 वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।
6 तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।