10 स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।
11 पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।