11 अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
12 तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।
13 स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
14 अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।
15 तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
16 अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।
17 अनन्तरं सूर्य्ये तिष्ठन् एको दूतो मया दृष्टः, आकाशमध्य उड्डीयमानान् सर्व्वान् पक्षिणः प्रति स उच्चैःस्वरेणेदं घोषयति, अत्रागच्छत।
18 ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।
19 ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।
20 ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
21 अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः।