Publicidade

Romanos 3

1 अपरञ्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं?

2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।

3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

4 केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।

5 अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?

6 इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?

7 मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?

8 मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।

9 अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।

10 लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।

11 तथा ज्ञानीश्वरज्ञानी मानवः कोपि नास्ति हि।

12 विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।

13 तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।

14 मुखं तेषां हि शापेन कपटेन च पूर्य्यते।

15 रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।

16 पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।

17 ते जना नहि जानन्ति पन्थानं सुखदायिनं।

18 परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।

19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

21 किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।

22 यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।

23 तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।

24 त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।

25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,

26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

27 तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।

28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।

29 स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;

30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।

31 तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-