1 यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च
2 तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।
3 तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।