30 तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?
31 ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।
32 स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।