5 तदा फिलिपः शोमिरोण्नगरं गत्वा ख्रीष्टाख्यानं प्राचारयत्;
6 ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्।
7 तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।
8 तस्मिन्नगरे महानन्दश्चाभवत्।