11 अपरम् आन्तियखियानगरं पितर आगतेऽहं तस्य दोषित्वात् समक्षं तम् अभर्त्सयं।
12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।
13 ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।
14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?