1 हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?
2 अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?
3 यूयं किम् ईदृग् अबोधा यद् आत्मना कर्म्मारभ्य शरीरेण तत् साधयितुं यतध्वे?