26 ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।
27 यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।
28 अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।