1 ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।
2 पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।
3 अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।
4 युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च।
5 यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे।
6 ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।