1 व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
2 यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।
3 किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।
4 यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।