Pular para o conteúdo
Publicidade

Hebrews 10:3-10

3 किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।

4 यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।

5 एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।

6 न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।

7 अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।"

8 इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्नञ्चोपचारकं, नेमानि वाञ्छसि त्वं हि न चैतेषु प्रतुष्यसीति।

9 ततः परं तेनोक्तं यथा, "पश्य मनोऽभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति।

10 तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.