37 येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।
38 "पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"
39 किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।