17 अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,
18 वस्तुत इस्हाकि तव वंशो विख्यास्यत इति वाग् यमधि कथिता तम् अद्वितीयं पुत्रं प्रतिज्ञाप्राप्तः स उत्ससर्ज।
19 यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।